Kaayaashuddhi Mantra

भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः
क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन्

निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च
शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन्

विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम्
शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः

आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये
हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन्

आलापाश्च प्रलापाश्चाभीलापलपश्च ये
शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या
व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते

आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः
चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन्

आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः
गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन्

अस्थि कृत्वा समिधं तदष्टापो असादयन्
रेतः कृत्वाज्यं देवाः पुरुषमाविशन्

या आपो याश्च देवता या विराड्ब्रह्मणा सह
शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः

सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे
अथास्येतरमात्मानं देवाः प्रायच्छन्न् अग्नये

तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते
सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते

प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गच्छति
अद एकेन गच्छत्यद एकेन गच्छतीहैकेन नि षेवते

अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम्
तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते



Credits
Writer(s): Shailesh Daani
Lyrics powered by www.musixmatch.com

Link