Shiva Shaktikrutam Ganadeesha Stotram

नमस्ते गणनाथाय गणानां पतये नमः ।
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च
। नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥
वरदाभयहस्ताय नमः परशुधारिणे । नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥
अनामयाय सर्वाय सर्वपूज्याय ते नमः ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥
ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः
। अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥
विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते
। त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥
किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् । तेन
तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥
तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ।
गणेश उवाच ।
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥
भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् ।
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥
धनधान्यादिकं सर्वं लभते तेन निश्चितम् ।
इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं समाप्तम्



Credits
Writer(s): Devassy Stephen
Lyrics powered by www.musixmatch.com

Link