Kshama Prarthana

अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया
दासोऽयमिति माँ मत्वा क्षमस्व परमेश्वरि
दासोऽयमिति माँ मत्वा क्षमस्व परमेश्वरि

आवाहनं न जानामि न जानामि विसर्जनम्
पूजां चैव न जानामि क्षम्यतां परमेश्वरि
पूजां चैव न जानामि क्षम्यतां परमेश्वरि

(सा, प, ध)
(म, रे, द, रे, सा)
(सा, प, ध)
(म, रे, द, रे, सा)

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे

अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः

(सा, प, ध)
(म, रे, द, रे, सा)
(सा, प, ध)
(म, रे, द, रे, सा)

सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु

अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम्
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि

(सा, प, ध)
(म, रे, द, रे, सा)
(सा, प, ध)
(म, रे, द, रे, सा)

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम्
सिद्धिर्भवतु मे देवि त्वत्प्रसात्सुरेश्वरि
त्वत्प्रसात्सुरेश्वरि, त्वत्प्रसात्सुरेश्वरि, त्वत्प्रसात्सुरेश्वरि

श्री दुर्गार्पण नमस्तु



Credits
Writer(s): Vivek Prakash, Singh Rajendra Amar
Lyrics powered by www.musixmatch.com

Link