Shree Hanuman Satavan

प्रनवउँ पवनकुमार
खलबन पावक ज्ञानघन

जासु हृदय आगार
बसहिं राम सर चाप धर

अतुलितबलधामं हेमशैलाभदेहम्

दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्
सकलगुणनिधानं वानराणामधीशम्

रघुपतिप्रियभक्तं
वातजातं नमामि

गोष्पदीकृतवारीशं
मशकीकृतराक्षसम्
रामायणमहामालारत्नं
वन्देऽनिलात्मजम्
अञ्जनानन्दनं वीरं
जानकीशोकनाशनम्
कपीशमक्षहन्तारं वन्दे
लङ्काभयङ्करम्

उल्लङ्घ्य सिन्धो: सलिलं सलीलं
य: शोकवह्निं जनकात्मजाया:
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम्
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये
आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीयविग्रहम्
पारिजाततरुमूलवासिनं
भावयामि पवमाननन्दनम्
यत्र-यत्र रघुनाथकीर्तनं
तत्र-तत्र कृतमस्तकाञ्जलिम्
बाष्पवारिपरिपूर्णलोचनं मारुतिं
नमत राक्षसान्तकम्



Credits
Writer(s): Traditional, Bijender Chauhan
Lyrics powered by www.musixmatch.com

Link