Shri Shiv Sadakshar Stotra

ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः
कामदं मोक्षदं चैव ॐकाराय नमो नमः

नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः
नरा नमंति देवेशं नकाराय नमो नमः

महादेवं महात्मानं महाध्यानं परायणम्
महापापहरं देवं मकाराय नमो नमः

शिवं शांतं जगन्नाथं लोकानुग्रहकारकम्
शिवमेकपदं नित्यं शिकाराय नमो नमः

वाहनं वृषभो यस्य वासुकिः कंठभूषणम्
वामे शक्तिधरं देवं वकाराय नमो नमः

यत्र तत्र स्थितो देवः सर्वव्यापी महेश्वरः
यो गुरुः सर्वदेवानां यकाराय नमो नमः

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ
शिवलोकमवाप्नोति शिवेन सह मोदते

...शिवेन सह मोदते
...शिवेन सह मोदते

इति श्री रुद्रयामले उमा महेश्वर संवादे
षडक्षर स्तोत्रम् संपूर्णम्



Credits
Writer(s): Ricky Mishra
Lyrics powered by www.musixmatch.com

Link