Shri Saraswati Stotram

सरस्वति नमस्यामि चेतनां हृदि संस्थितां
कंठस्थां पद्मयॆयिं त्वां ह्रींकारां सुप्रियांसदा
मतिदां वरदां चैव सर्वकामफलप्रदां
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदां

मंत्रप्रियां सदा हृद्यांकुमतिध्वंसकारिणीं
स्वप्रकाशां निरालंबामज्ञानितिमिरापहां
मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियां
पद्मोपविष्टां कुंडलिनीं शुक्लवस्त्रां मनोहारां

आदित्यमंडले लीनां प्रणमामि जनप्रियां
ज्ञानकरीं जगद्दीपां भक्तविघ्नविनाशिनीं
इति सत्यं स्तुता देवी वागीशेन महात्मना
आत्मानं दर्शयामास शरदीदुसमप्रभा

वरं वृणीष्व भद्रंते यत्ते मनसि वर्तते
प्रसन्नायदि मे देवि परं ज्ञानं प्रयच्छमे
दत्तं ते निर्मलं ज्ञानं कुमतिध्वंसकारकं
स्तोत्रेणानेन मां भक्ताये स्तुवंति सदा नराः

लभंते परमं ज्ञानं ममतुल्यपराक्रमाः
कवित्वं मत् प्रसादेन प्राप्नुवंति मनोगतं
त्रिसंध्यं प्रयतो भूत्वा यस्त्व मुं पठते नरः
तस्य कंठे सदा वासं करिष्यामि न संशयः



Credits
Writer(s): Uma Mohan
Lyrics powered by www.musixmatch.com

Link