Apaduddaraka Stotram

नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिके विश्वरूपे
नमस्ते जगद्वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे

(नमस्ते जगत्तारिणि त्राहि दुर्गे)
(नमस्ते जगत्तारिणि त्राहि दुर्गे)

नमस्ते जगच्चिन्त्यमानस्वरूपे
नमस्ते महायोगिविज्ञानरूपे
नमस्ते नमस्ते सदानन्द रूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे

(नमस्ते जगत्तारिणि त्राहि दुर्गे)
(नमस्ते जगत्तारिणि त्राहि दुर्गे)

अनाथस्य दीनस्य तृष्णातुरस्य
स्रुधार्तस्य भीतस्य बद्धस्य जन्तोः
त्वमेका गतिर्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे

(नमस्ते जगत्तारिणि त्राहि दुर्गे)
(नमस्ते जगत्तारिणि त्राहि दुर्गे)

अरण्ये रणे दारुणे शत्रुमध्ये
जले सङ्कटे राजगेहे प्रवाते
त्वमेका गतिर्देवि निस्तार हेतुर्
नमस्ते जगत्तारिणि त्राहि दुर्गे

(नमस्ते जगत्तारिणि त्राहि दुर्गे)
(नमस्ते जगत्तारिणि त्राहि दुर्गे)

अपारे महदुस्तरेऽत्यन्तघोरे
विपत् सागरे मज्जतां देहभाजाम्
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे

(नमस्ते जगत्तारिणि त्राहि दुर्गे)
(नमस्ते जगत्तारिणि त्राहि दुर्गे)

नमश्चण्डिके चण्डोर्दण्डलीला
समुत्खण्डिता खण्डलाशेषशत्रोः
त्वमेका गतिर्विघ्नसन्दोहहर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे

(नमस्ते जगत्तारिणि त्राहि दुर्गे)
(नमस्ते जगत्तारिणि त्राहि दुर्गे)

त्वमेका सदाराधिता सत्यवादि
न्यनेकाखिलाऽक्रोधना क्रोधनिष्ठा
इडा पिङ्ला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे

(नमस्ते जगत्तारिणि त्राहि दुर्गे)
(नमस्ते जगत्तारिणि त्राहि दुर्गे)

नमो देवि दुर्गे शिवे भीमनादे
सदासर्वसिद्धिप्रदातृस्वरूपे
विभूतिः सतां कालरात्रिस्वरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे

(नमस्ते जगत्तारिणि त्राहि दुर्गे)
(नमस्ते जगत्तारिणि त्राहि दुर्गे)

शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम्
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद

इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम्
त्रिसन्ध्यमेकसन्ध्यं वा पठनाद्घोरसङ्कटात्
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले
सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान् सदा

स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम्
पठनादस्य देवेशि किं न सिद्ध्यति भूतले
स्तवराजमिदं देवि संक्षेपात्कथितं मया

(ॐ श्री दुर्गाय नमः)
(ॐ श्री दुर्गाय नमः)
(ॐ श्री दुर्गाय नमः)



Credits
Writer(s): L Subramaniam
Lyrics powered by www.musixmatch.com

Link