Acharyakrutam Shatpadeestotram

अविनयमपनय विष्णो दमय
मनः शमय विषयमृगतृष्णाम्
भूतदयां विस्तारय तारय संसारसागरतः
दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे

सत्यपि भेदापगमे नाथ तवाஉहं न मामकीनस्त्वम्
सत्यपि भेदापगमे नाथ तवाஉहं न मामकीनस्त्वम्
तवाஉहं न मामकीनस्त्वम्
तवाஉहं न मामकीनस्त्वम्

सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः
समुद्रो न तारङ्गः
समुद्रो न तारङ्गः
समुद्रो न तारङ्गः
समुद्रो न तारङ्गः

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः
मत्स्यादिभिरवतारैरवतारवताஉवता सदा वसुधाम्
परमेश्वर परिपाल्यो भवता भवतापभीतोஉहम्

दामोदर गुणमन्दिर सुन्दर वदनारविन्द गोविन्द
दामोदर गुणमन्दिर सुन्दर वदनारविन्द गोविन्द
वदनारविन्द गोविन्द
वदनारविन्द गोविन्द

भवजलधिमथनमन्दर परमं दरमपनय त्वं मे
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे
दरमपनय त्वं मे
दरमपनय त्वं मे
दरमपनय त्वं मे
दरमपनय त्वं मे
दरमपनय त्वं मे
दरमपनय त्वं मे

नारायण करुणामय शरणं करवाणि तावकौ चरणौ
इति षट्पदी मदीये वदनसरोजे सदा वसतु
नारायण करुणामय शरणं करवाणि तावकौ चरणौ
इति षट्पदी मदीये वदनसरोजे सदा वसतु



Credits
Writer(s): Devassy Stephen
Lyrics powered by www.musixmatch.com

Link