Shree Vishnu Pratah - Smaranastotram

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूत वरवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ १॥
प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूत वरवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ १॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य
पारायण प्रवणविप्रपरायणस्य ॥ २॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य
पारायण प्रवणविप्रपरायणस्य ॥ २॥
प्रातर्भजामि भजतामभयङ्करं तं
प्राक्सर्वजन्म कृतपापभयापहत्यै ।
यो ग्राहवक्त्र पतिताङ्घ्रिगजेन्द्रघोर
शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ३॥
प्रातर्भजामि भजतामभयङ्करं तं
प्राक्सर्वजन्म कृतपापभयापहत्यै ।
यो ग्राहवक्त्र पतिताङ्घ्रिगजेन्द्रघोर
शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ३॥



Credits
Writer(s): Devassy Stephen
Lyrics powered by www.musixmatch.com

Link