Aatmanukulan Mantra

(ॐ)

(ॐ)

(ॐ)

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः
(ॐ)
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः
(ॐ)

सहृदयं सामनस्यमविद्वेषं कृणोमि वः
अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या

अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः
जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम्

मा भ्राता भ्रातरं द्विक्षन्मा स्वसारमुत स्वसा
सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया

येन देवा न वियन्ति नो च विद्विषते मिथः
तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः

ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः
अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्कृणोमि

समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि
सम्यञ्चोऽग्नि सपर्यतारा नाभिमिवाभितः

सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्संवननेन सर्वान्
देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु

(ॐ)



Credits
Writer(s): Dhani Shailesh
Lyrics powered by www.musixmatch.com

Link